।। उपनिषदामृतम् ।।
ईशावास्यमिदं सर्वँ यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥
( ईशावास्योपनिषद् -1 )
एकं दृश्यं द्वौ विचारौ
एकं दृश्यं द्वौ विचारौ
नेहा राहुलः च मातृ-पितृभ्यां सह शिवालयं गच्छतः स्म । नगरात् बहिः मार्गे तैः एकः आम्रवृक्षः दृष्टः । वृक्षस्य शाखासु बहूनि आम्रफ़लानि आसन् । वृक्षस्य अधः कश्चन मनुष्यः यष्ट्या शाखासु ताडयन् आम्रफ़लानि पातयति स्म । नेहा राहुलः च एतद् दृश्यं अवलोकयतः स्म । प्रहारं कृत्वा अपि फ़लम् न पतितं चेत् सः वारंवारं बलेन प्रहारं करोति स्म ।
"एतद् दृष्ट्वा भवतोः मनसोः के के विचाराः आगताः?"---- पिता पृष्टवान् ।
" सः मनुष्यः शाखासु यष्ट्या ताडयन् अस्ति । तदा एव वृक्षतः आम्रफ़लं पतति । यत् किमपि वयम् इच्छामः तत् प्राप्तुम् आक्रमणम् आवश्यकम् इति अहं मन्ये।"---राहुलः उक्तवान्।
" मम विचारः भिन्नः । यद्यपि सः वृक्षं ताडयति तथापि वृक्षः फ़लानि एव ददाति तस्मै । " ------नेहा विचारं प्रकटितवती ।
" शोभनम् । नेहे , उत्तमः विचारः । वृक्षः परोपकारार्थम् एव जीवति । मरणोत्तरम् अपि परोपकारम् एव करोति ।
राहुल, एषः तु अस्माकं पुरतः आदर्शः । " --- माता उक्तवती।
श्रीमद्भगवद्गीता - शारदा महोदयया प्रेषिता: श्लोका: ।।
1- यदा संहरते चायं कुर्मोंगानीव सर्वश:,
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता.
2- विषया विनिवर्तन्ते निराहारस्य देहिन:
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते
3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित:
इन्द्रियाणि प्रमाथिनी हरन्ति प्रसभम मन: ।।
4- तानिं सर्वाणि संयभ्य युक्त आसीत् मत्पर:
वशे हि यस्येद्रियाणि तस्य प्रज्ञां प्रतिष्ठा ।।

श्रीमद्भगवद्गीता- केचन् श्लोका: शारदा महोदयया प्रेषिता: ।।
1-सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ,
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि
2-कर्मण्येव अधिकारस्ते मा फलेषु कदाचन,
मा कर्मफलहेतुर्भूर्मा ते संगो अस्त्वकर्मणि.
श्रीकृष्ण उवाच:
3-प्रजहाति यदा कामान सर्वानपार्थ मनोगतान,
आत्मन्येवात्मना तुष्ट:स्थित्धिर्मनोरुच्यते?
4-दु:खेश्व्नुद्विग्नमना: सुखेषु विगतस्पृह:,
वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते !!

No comments:
Post a Comment